Saturday, 8 December 2012

Nirvana Shatkam by Adi shankra

The Atma shatkam (Devanāgarī: आत्माषट्कम्,)is also known as Nirvana Shatkam (Devanāgarī: निर्वाणषट्कम्, and by other variations of these names. It is a śloka in six stanzas written by Ādi Śaṅkara summarizing the basic teachings of Advaita Vedanta, teachings of non-dualism.six stanzas are



मनोबुद्धयहंकार चित्तानि नाहं, न च श्रोत्रजिव्हे न च घ्राणनेत्रे ।
न च व्योम भूमिर्न तेजो न वायुः, चिदानन्दरूपः शिवोऽहम् शिवोऽहम् ।।

न च प्राणसंज्ञो न वै पंचवायुः, न वा सप्तधातुः न वा पञ्चकोशः ।
न वाक्पाणिपादं न चोपस्थपायु, चिदानन्दरूपः शिवोऽहम् शिवोऽहम् ।।

:न मे द्वेषरागौ न मे लोभमोहौ, मदो नैव मे नैव मात्सर्यभावः ।
 न धर्मो न चार्थो न कामो न मोक्षः, चिदानन्दरूपः शिवोऽहम् शिवोऽहम् ।। 

न पुण्यं न पापं न सौख्यं न दुःखं, न मन्त्रो न तीर्थो न वेदा न यज्ञ ।
अहं भोजनं नैव भोज्यं न भोक्ता, चिदानन्दरूपः शिवोऽहम् शिवोऽहम् ।। 

न मे मृत्युशंका न मे जातिभेदः, पिता नैव मे नैव माता न जन्मः ।
 न बन्धुर्न मित्रं गुरूर्नैव शिष्यः, चिदानन्दरूपः शिवोऽहम् शिवोऽहम्।। 

अहं निर्विकल्पो निराकार रूपो, विभुत्वाच सर्वत्र सर्वेन्द्रियाणाम् ।
 न चासङत नैव मुक्तिर्न मेयः, चिदानन्दरूपः शिवोऽहम् शिवोऽहम् ।।

No comments:

Post a Comment